संस्कृतनाटके प्राकृतभाषाप्रयोगे लक्षणग्रन्थानां मतम् - एकं पाठ्यगतं सामाजिक-नाट्यशास्त्रीयं च अध्ययनम् ।
Main Article Content
Abstract
संस्कृतनाटकेषु संस्कृत-प्राकृतभाषयोः सहप्रयोगः तस्य कश्चन विशिष्टः संरचनात्मको गुणो वर्तते। अस्मिन् शोधलेखे प्रमुखलक्षणग्रन्थानां दृष्ट्या नाट्यभाषायाः नियमाः कथं निरूपिताः, विपरिवर्तिताः, विकसिताश्चेति विविच्यते। भरतमुनेः नाट्यशास्त्रम् (अभिनवगुप्तकृत-अभिनवभारतीसहितम्), दण्डिनः काव्यादर्शः, धनञ्जयस्य दशरूपकम्, भोजस्य सरस्वतीकण्ठाभरणम्, सागरनन्दिनः नाटकलक्षणरत्नकोशः, विश्वनाथकविराजस्य साहित्यदर्पणम्, सिंहभूपालस्य रसार्णवसुधाकरः, रूपगोस्वामिनः नाटकचन्द्रिका चेति ग्रन्थाः अत्र आधारीकृताः। समीक्षया ज्ञायते यत् प्राकृतभाषा न केवलं संस्कृतादपभ्रष्टा हीना वा, अपितु पात्र-लिङ्ग-देश-कार्य- औचित्यादीन् अनुसृत्य तस्याः विशिष्टं नाटकीयमुपादेयत्वं स्वीकृतमस्ति। भरतमुनेः व्यापकीकरणादारभ्य धनञ्जय-विश्वनाथादीनां संक्षिप्तनियमान् प्राप्य उत्तरवर्तिभिः आचार्यैः भाषा-विभाषा-देशभाषादिभेदैः इयं परम्परा संवर्धिता। अतः संस्कृतनाटकं नाम सुसङ्घटिता एका बहुभाषामयी प्रदर्शिनी पद्धतिरिति लक्षणग्रन्थानां रहस्यम्।