सनातनपरम्परायां नारीशक्तिः दार्शनिकं सामाजिकं च स्वरूपम्

Main Article Content

अमिता सिंह:

Abstract

अयं शोधलेखः भारतीय-सनातनपरम्परायां नार्याः गरिमामय-दार्शनिक-बहुआयामि-स्वरूपस्य एकं विस्तृतम् अनुशीलनं वर्तते। साङ्ख्यदर्शनस्य ‘प्रकृति-पुरुष’ सिद्धान्तात् आरभ्य तन्त्रशास्त्रस्य ‘कुण्डलिनी’ ऊर्जायवत्, नारी न केवलं काचित् सामाजिका ईकाई, अपितु सृष्टेः सञ्चालनस्य अनिवार्आ ‘चित्-शक्तिः’ (चेतना-ऊर्जा) इति रूपेण प्रतिष्ठिता अस्ति। वैदिकयुगे नार्याः ‘अदिति’ (स्वतन्त्रा) सत्ता, ऋषिकाणां (घोषा-अपाला-लोपामुद्रादीनां) ज्ञानसाक्षात्कारः, उपनिषत्काले च गार्गी-मैत्रेयीभ्यां प्रदर्शितं बौद्धिक-वर्चस्वं तस्याः प्रामाण्यं प्रददाति। रामायण-महाभारतकालयोः नारी सामाजिकन्यायस्य, धर्मरक्षायाः, नीतिनिर्माणस्य च धुरीरूपेण चित्रिता अस्ति। मध्यकालीन-सामाजिक-आह्वानैः सह मीराबाई-राज्ञी लक्ष्मीबाई-सावित्रीबाई फुले सदृशीभिः विभूतिभिः नार्याः सङ्घर्षशीलता अक्षुण्णा रक्षिता। वर्तमान-परिप्रेक्ष्ये, आधुनिकी नारी स्वपरम्पराभिः सह संलग्ना भूत्वा विज्ञान-कूटनीति-नेतृत्व-क्षेत्रेषु ‘ब्रह्मवादिनी’ तथा ‘सद्योवधू’ इत्यनयोः समन्वितरूपेण प्रतिष्ठिता अस्ति। निष्कर्षतः, नारी सृष्टेः शाश्वती आधारशिला वर्तते, यस्याः सम्मानं कस्यचित् समाजस्य विकासस्य ‘स्वर्णसूत्रम्’ अस्ति। नर-नार्योः पूरक-मिलनमेव सभ्यतायाः पूर्णतायाः राष्ट्रस्य पुनर्जागरणस्य च एकमात्रः मार्गः अस्ति, यत्र नारी स्वकीयया आत्मशक्त्या चेतनया च सञ्चालिता एका आत्मनिर्भरा ईकाई वर्तते।

Article Details

Issue
Section
Articles