आधुनिकशिक्षायाः आलोकस्तम्भः – वैदिकी शिक्षा

Main Article Content

अमिता सिंह

Abstract

अस्मिन् शोधपत्रे एकविंशतिशताब्द्याः सूचनाक्रान्तेः युगे वैदिककालीनशिक्षणपद्धतेः प्रासंगिकतायाः गम्भीरं विश्लेषणं कृतम् अस्ति। सम्प्रति समाजः यद्यपि तन्त्राज्ञानेन(AI) समृद्धः अस्ति, तथापि सः नैतिकशून्यतायाः मानसिकविक्षोभस्य च गर्तं गच्छन् अस्ति। लेखे "सा विद्या या विमुक्तये" इति वैदिक-आदर्शस्य महत्त्वं प्रतिपादितम्, यः केवलं आर्थिकं न, अपितु आन्तरिकं स्वातन्त्र्यं प्रदाति। वैदिकपरम्परायाः व्रत-दीक्षा-तपसां चर्चां कुर्वन् शोधकर्ता स्पष्टयति यत् प्राचीनशिक्षणं छात्रस्य चरित्रनिर्माणाय पूर्णमानव निर्माणाय च प्रतिबद्धम् आसीत्। अथर्ववेदस्य 'ब्रह्मचर्यसूक्तस्य' आधारेण गुरु-शिष्ययोः 'द्वितीयजन्म' सम्बन्धस्य, अग्निसाक्षित्वेन स्वीकृतव्रतस्य, तथा च उभयोः सामञ्जस्यस्य (सह नाववतु) महत्त्वं दर्शितम्। अत्र आधुनिकशिक्षायाः व्यावसायिकतां विमृश्य इयं प्रस्थापना कृता यत् वैदिकी शिक्षा केवलं जीविकोपार्जनस्य साधनं नास्ति, अपितु इयं समग्रा जीवनपद्धतिः वर्तते। अन्ततः, आधुनिकविज्ञानस्य गतिं वैदिकसंस्काराणां मतिं च मेलयित्वा एव समाजस्य शाश्वत-कल्याणं सम्भवति इति।

Article Details

Issue
Section
Articles